३.६१.१

तप्यमानं तथा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं साम्वर्तकमिवानलम् ॥

पदच्छेदः

तप्यमानंतप्यमान (√तप् + शानच्, २.१)
तथातथा (अव्ययः)
रामंराम (२.१)
सीताहरणकर्शितम्सीता–आहरण–कर्शित (√कर्शय् + क्त, २.१)
लोकानाम्लोक (६.३)
अभवेअभव (७.१)
युक्तंयुक्त (√युज् + क्त, २.१)
संवर्तकम्संवर्तक (२.१)
इवानलम्इव (अव्ययः)–अनल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्य मा नं था रा मं
सी तार्शि तम्
लो का ना वे यु क्तं
सा म्वर्तमि वा लम्