३.६३.२०

एकमेकायने दुर्गे निःश्वसन्तं कथंचन ।
समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् ॥

अन्वयः

दुर्गे in a place difficult to reach, एकायने in a solitary place, एकम् lonely, कथञ्चन with great difficulty, निश्श्वसन्तम् sighing, समीक्ष्य on observing, रामः Rama, दुःखिततरः overcome by greater grief, सौमित्रिम् Saumitri, अब्रवीत् said.

Summary

Rama saw Jatayu breathing with difficulty in that solitary, inaccessible place.Overcome by greater grief he said to Lakshmana:

पदच्छेदः

एकम्एक (२.१)
एकायनेएकायन (७.१)
दुर्गेदुर्ग (७.१)
निःश्वसन्तंनिःश्वसत् (√निः-श्वस् + शतृ, २.१)
कथंचनकथंचन (अव्ययः)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
दुःखितोदुःखित (१.१)
रामःराम (१.१)
सौमित्रिम्सौमित्रि (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे का ने दु र्गे
निःश्व न्तं थं
मीक्ष्य दुःखि तो रा मः
सौ मित्रिमिब्र वीत्