३.६४.२८

नाथं पतगलोकस्य चितामारोपयाम्यहम् ।
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥

अन्वयः

राघव O scion of the Raghu race, सौमित्रे Saumitri, रौद्रेण by the fierce, रक्षसा demon, हतम् killed, इमम् this, पतगलोकस्य नाथम् lord of the world of birds, चिताम् funeral pyre, आरोप्य placing, धक्ष्यामि I will cremate with honour.

Summary

O scion of the Raghus I will place the body of the lord of the world of birds, killed by the fierce demon, on the funeral pyre and crimate him with honour.

पदच्छेदः

नाथंनाथ (२.१)
पतगलोकस्यपतग–लोक (६.१)
चिताम्चिता (२.१)
आरोपयाम्य्आरोपयामि (√आ-रोपय् लट् उ.पु. )
अहम्मद् (१.१)
इमंइदम् (२.१)
धक्ष्यामिधक्ष्यामि (√दह् लृट् उ.पु. )
सौमित्रेसौमित्रि (८.१)
हतंहत (√हन् + क्त, २.१)
रौद्रेणरौद्र (३.१)
रक्षसारक्षस् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना थं लोस्य
चि ता मा रो याम्य हम्
मं क्ष्यामि सौ मि त्रे
तं रौ द्रेक्ष सा