३.६९.२

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥

पदच्छेदः

एषएतद् (१.१)
रामराम (८.१)
शिवःशिव (१.१)
पन्थापथिन् (१.१)
यत्रैतेयत्र (अव्ययः)–एतद् (१.३)
पुष्पितापुष्पित (१.३)
द्रुमाःद्रुम (१.३)
प्रतीचींप्रत्यञ्च् (२.१)
दिशम्दिश् (२.१)
आश्रित्यआश्रित्य (√आ-श्रि + ल्यप्)
प्रकाशन्तेप्रकाशन्ते (√प्र-काश् लट् प्र.पु. बहु.)
मनोरमाःमनोरम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राशि वः न्था
त्रै ते पुष्पि ताद्रु माः
प्र ती चींदि मा श्रित्य
प्र का न्ते नो माः