३.७.१३

सुप्राज्यफलमूलानि पुष्पितानि वनानि च ।
प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥

पदच्छेदः

सुप्राज्यफलमूलानिसु (अव्ययः)–प्राज्य–फल–मूल (२.३)
पुष्पितानिपुष्पित (२.३)
वनानिवन (२.३)
(अव्ययः)
प्रशान्तमृगयूथानिप्रशान्त (√प्र-शम् + क्त)–मृग–यूथ (२.३)
शान्तपक्षिगणानिशान्त (√शम् + क्त)–पक्षिन्–गण (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु प्राज्य मू लानि
पुष्पि तानि नानि
प्र शान्तमृ यू थानि
शान्तक्षि णानि