३.७.२

उत्थाय तु यथाकालं राघवः सह सीतया ।
उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ॥

अन्वयः

राघवः Rama, सहसीतया along with Sita, यथाकालम् at proper time, उत्थाय च getting up, सुशीतेन with cold water, उत्पलगन्धिना fragrant like lilies or fragrant with lilies, जलेन with water, उपास्पृशत् took bath

Summary

In the morning Rama and Sita got up in time and took bath in cool, lilyfragrant water.

पदच्छेदः

उत्थायउत्थाय (√उत्-स्था + ल्यप्)
तुतु (अव्ययः)
यथाकालंयथाकालम् (अव्ययः)
राघवःराघव (१.१)
सहसह (अव्ययः)
सीतयासीता (३.१)
उपास्पृशत्उपास्पृशत् (√उप-स्पृश् लङ् प्र.पु. एक.)
सुशीतेनसु (अव्ययः)–शीत (३.१)
जलेनोत्पलगन्धिनाजल (३.१)–उत्पल–गन्धिन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्थातु था का लं
रा वः सी या
पास्पृत्सु शी ते
ले नोत्पन्धि ना