३.७१.१९

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ।
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥

पदच्छेदः

अरविन्दोत्पलवतींअरविन्द–उत्पलवत् (२.१)
पद्मसौगन्धिकायुताम्पद्म–सौगन्धिक–आयुत (२.१)
पुष्पिताम्रवणोपेतांपुष्पित–आम्रवण–उपेत (√उप-इ + क्त, २.१)
बर्हिणोद्घुष्टनादिताम्बर्हिण–उद्घुष्ट–नादित (√नादय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि न्दोत्प तीं
द्म सौन्धि कायु ताम्
पुष्पि ताम्र णो पे तां
र्हि णो द्घुष्ट नादि ताम्