३.७१.२०

स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह ।
विललाप च तेजस्वी कामाद्दशरथात्मजः ॥

पदच्छेदः

तद् (१.१)
तांतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
ततःततस् (अव्ययः)
पम्पांपम्पा (२.१)
रामःराम (१.१)
सौमित्रिणासौमित्रि (३.१)
सहसह (अव्ययः)
विललापविललाप (√वि-लप् लिट् प्र.पु. एक.)
(अव्ययः)
तेजस्वीतेजस्विन् (१.१)
कामाद्काम (५.१)
दशरथात्मजःदशरथ–आत्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां दृ ष्ट्वा तः म्पां
रा मः सौ मित्रि णा
वि ला ते स्वी
का माद्द थात्म जः