४.११.४१

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः ।
प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥

अन्वयः

वेगप्रविद्धस्य flung, तस्य his, वक्त्रात् from the mouth, क्षतजबिन्दवः drops of blood, मारुतोत्क्षिप्ताः scattered by the wind, मतङ्गस्य Matanga's, आश्रमं प्रति at the hermitage of, प्रपेतुः fell.

M N Dutt

While thus thrown down by force, drops of blood, falling from his mouth, driven by the wind, fell upon the asylum of the great Saint Matanga.

Summary

'Scattered by the wind, drops of blood fell at the hermitage of Matanga from the mouth of the deadbody flung.

पदच्छेदः

तस्यतद् (६.१)
वेगप्रविद्धस्यवेग–प्रविद्ध (√प्र-व्यध् + क्त, ६.१)
वक्त्रात्वक्त्र (५.१)
क्षतजबिन्दवःक्षतज–बिन्दु (१.३)
प्रपेतुर्प्रपेतुः (√प्र-पत् लिट् प्र.पु. बहु.)
मारुतोत्क्षिप्तामारुत–उत्क्षिप्त (√उत्-क्षिप् + क्त, १.३)
मतंगस्याश्रमंमतंग (६.१)–आश्रम (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य वेप्र वि द्धस्य
क्त्रात्क्ष बिन्द वः
प्र पे तु र्मारु तो त्क्षि प्ता
ङ्ग स्याश्र मंप्रति