४.१३.१२

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।
द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥

अन्वयः

तेषाम् while they, त्वरितम् swiftly, गच्छताम् were going, रघुनन्दनः delight of the Raghu family, रामः Rama, तत्र there, द्रुमषण्डवनम् dense forest dense with trees, दृष्ट्वा seeing, सुग्रीवम् Sugriva, अब्रवीत् said.

M N Dutt

They proceeding quickly, Rama, the descendant of Raghu, beholding the forest filled with trees, spoke to Sugrīva, saying.

Summary

While walking fast, looking at the forest full of trees Rama, the delight of the Raghus said to Sugriva:

पदच्छेदः

तेषांतद् (६.३)
तुतु (अव्ययः)
गच्छतांगच्छत् (√गम् + शतृ, ६.३)
तत्रतत्र (अव्ययः)
त्वरितंत्वरित (२.१)
रघुनन्दनःरघुनन्दन (१.१)
द्रुमषण्डंद्रुम–षण्ड (२.१)
वनंवन (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रामःराम (१.१)
सुग्रीवम्सुग्रीव (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षांतुच्छ तांत्र
त्वरि तंघुन्द नः
द्रु ण्डं नं दृ ष्ट्वा
रा मः सु ग्रीब्र वीत्