४.१३.२०

पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।
विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः ॥

अन्वयः

पक्षिणः birds, तथा so also, अन्ये other, वनचारिणः wild animals, एतत् this place, वर्जयन्ति avoid, ये whoever, मोहात् by ignorance, अत्र there, विशन्ति enter, ते they, पुनः again, न निवर्तन्ति do not return.

M N Dutt

Birds or other wild animals do not enter this asylum; whoever entereth this by mistake never returneth.

Summary

'Birds and wild animals avoid the hermitage and whoever enters there out of ignorance never returns.

पदच्छेदः

पक्षिणोपक्षिन् (१.३)
वर्जयन्त्य्वर्जयन्ति (√वर्जय् लट् प्र.पु. बहु.)
एतत्एतद् (२.१)
तथान्येतथा (अव्ययः)–अन्य (१.३)
वनचारिणःवन–चारिन् (१.३)
विशन्तिविशन्ति (√विश् लट् प्र.पु. बहु.)
मोहाद्मोह (५.१)
येयद् (१.३)
ऽप्य्अपि (अव्ययः)
अत्रअत्र (अव्ययः)
निवर्तन्तेनिवर्तन्ते (√नि-वृत् लट् प्र.पु. बहु.)
(अव्ययः)
तेतद् (१.३)
पुनःपुनर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षि णोर्ज न्त्ये
त्त था न्ये चारि णः
विन्ति मो हा द्ये ऽप्यत्र
नि र्त न्ते तेपु नः