४.१७.२२

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।
लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् ॥

अन्वयः

त्वम् you, प्रियदर्शनः pleasing in appearance, नराधिपतेः पुत्रः son of a king, प्रतीतः famous, राजन् O king, ते to you, धर्मसंहितम् righteous one, लिङ्गमपि even signs, अस्ति are, दृश्यते found

Summary

'O prince, you are son to a king, handsome and famous. Even signs of righteousness are discernible in you.

पदच्छेदः

त्वंत्वद् (१.१)
नराधिपतेःनर–अधिपति (६.१)
पुत्रःपुत्र (१.१)
प्रतीतःप्रतीत (√प्रति-इ + क्त, १.१)
प्रियदर्शनःप्रिय–दर्शन (१.१)
लिङ्गम्लिङ्ग (१.१)
अप्य्अपि (अव्ययः)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
तेत्वद् (६.१)
राजन्राजन् (८.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
धर्मसंहितम्धर्म–संहित (√सम्-धा + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वं राधि तेः पु त्रः
प्र ती तःप्रिर्श नः
लिङ्ग प्यस्ति ते रा
न्दृश्य तेर्म संहि तम्