४.१७.८

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥

अन्वयः

स्वर्गमार्गप्रभावनम् that which paves the way to heaven (for the dead), रामबाणा Rama's arrow, सनक्षिप्तम् released, तत् that, अस्त्रम् weapon, तस्य वीरस्य that hero's, परमां गतिम् supreme destination, आवहत् created

M N Dutt

The arrow thrown off Răma's bow pointing out to him the way to the celestial region, became an excellent means to that hero.

Summary

Rama's arrow released paved the way to heaven which was that hero's supreme destination.

पदच्छेदः

तद्तद् (१.१)
अस्त्रंअस्त्र (१.१)
तस्यतद् (६.१)
वीरस्यवीर (६.१)
स्वर्गमार्गप्रभावनम्स्वर्ग–मार्ग–प्रभावन (१.१)
रामबाणासनक्षिप्तम्राम–बाणासन–क्षिप्त (√क्षिप् + क्त, १.१)
आवहत्आवहत् (√आ-वह् लङ् प्र.पु. एक.)
परमांपरम (२.१)
गतिम्गति (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्रंस्य वीस्य
स्वर्ग मा र्गप्र भा नम्
रा बा णा क्षिप्त
मात्प मां तिम्