४.१८.५६

स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो; वचः सुयुक्तं निजगाद वानरः ॥

अन्वयः

सः वानरः that monkey, महात्मनः of the great, धर्मपथानुवर्तिनः of a man following a righteous path, रणावमर्दिनः a crusher of enemy in war, तस्य रामस्य that Rama's, मधुरम् sweet, समाहितम् wellcomposed, वाक्यम् words, निशम्य after hearing, सुयुक्तम् very fitting, वचः words, निजगाद replied.

M N Dutt

Hearing these sweet, collected and pious words of the high-souled Rāma,-the repressor of the enemies in a battle,-the monkey again addressed him with the following pregnant words.

Summary

Having listened to the sweet, wellcomposed words of great Rama, a crusher of the enemy in war ,follower of righteous path, Vali replied in appropriate manner:

पदच्छेदः

तद् (१.१)
तस्यतद् (६.१)
वाक्यंवाक्य (२.१)
मधुरंमधुर (२.१)
महात्मनःमहात्मन् (६.१)
समाहितंसमाहित (२.१)
धर्मपथानुवर्तिनःधर्म–पथ–अनुवर्तिन् (६.१)
निशम्यनिशम्य (√नि-शामय् + ल्यप्)
रामस्यराम (६.१)
रणावमर्दिनोरण–अवमर्दिन् (६.१)
वचःवचस् (२.१)
सुयुक्तंसु (अव्ययः)–युक्त (√युज् + क्त, २.१)
निजगादनिजगाद (√नि-गद् लिट् प्र.पु. एक.)
वानरःवानर (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्य वा क्यंधु रं हात्म नः
माहि तंर्म थानुर्ति नः
निम्य रास्य णार्दि नो
चःसु यु क्तंनि गा वा रः