४.२५.२१

तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ।
शुक्ले च बालव्यजने हेमदण्डे यशस्करे ॥

पदच्छेदः

तस्यतद् (६.१)
पाण्डुरम्पाण्डुर (२.१)
आजह्रुश्आजह्रुः (√आ-हृ लिट् प्र.पु. बहु.)
छत्त्रंछत्त्र (२.१)
हेमपरिष्कृतम्हेमन्–परिष्कृत (√परिष्-कृ + क्त, २.१)
शुक्लेशुक्ल (२.२)
(अव्ययः)
बालव्यजनेबाल–व्यजन (२.२)
हेमदण्डेहेमन्–दण्ड (२.२)
यशस्करेयशस्कर (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य पाण्डु माह्रु
श्छ त्रं हे रिष्कृ तम्
शु क्ले बाव्य ने
हे ण्डेस्क रे