४.२५.३३

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥

पदच्छेदः

अभ्यषिञ्चन्तअभ्यषिञ्चन्त (√अभि-सिच् लङ् प्र.पु. बहु.)
सुग्रीवंसुग्रीव (२.१)
प्रसन्नेनप्रसन्न (३.१)
सुगन्धिनासुगन्धि (३.१)
सलिलेनसलिल (३.१)–सलिल (३.१)
सहस्राक्षंसहस्राक्ष (२.१)–सहस्राक्ष (२.१)
वसवोवसु (१.३)–वसु (१.३)
वासवंवासव (२.१)–वासव (२.१)
यथायथा (अव्ययः)–यथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्य षि ञ्चन्त सु ग्री वं
प्र न्नेसुन्धि ना
लि ले स्रा क्षं
वो वा वं था