४.२५.३४

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः ।
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥

अन्वयः

सुग्रीवे as Sugriva, अभिषिक्ते was consecrated, सहस्रशः in thousands, सर्वे all, तत्र there, महात्मानः great, वानरपुङ्गवाः leaders among monkeys, हृष्टाः rejoiced, प्रचुक्रुशुः shrieked out of joy.

Summary

As Sugriva was ceremoniously consecrated, thousands of monkeys rejoiced and shrieked out of joy.

पदच्छेदः

अभिषिक्तेअभिषिक्त (√अभि-सिच् + क्त, ७.१)
तुतु (अव्ययः)
सुग्रीवेसुग्रीव (७.१)
सर्वेसर्व (१.३)
वानरपुंगवाःवानर–पुंगव (१.३)
प्रचुक्रुशुर्प्रचुक्रुशुः (√प्र-क्रुश् लिट् प्र.पु. बहु.)
महात्मानोमहात्मन् (१.३)
हृष्टास्हृष्ट (√हृष् + क्त, १.३)
तत्रतत्र (अव्ययः)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि षि क्तेतु सु ग्री वे
र्वे वा पुं वाः
प्र चुक्रु शुर्म हा त्मा नो
हृ ष्टा स्तत्रस्र शः