४.२५.६

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥

पदच्छेदः

स्नातोस्नात (√स्ना + क्त, १.१)
ऽयंइदम् (१.१)
विविधैर्विविध (३.३)
गन्धैर्गन्ध (३.३)
औषधैश्औषध (३.३)
(अव्ययः)
यथाविधियथाविधि (अव्ययः)
अर्चयिष्यतिअर्चयिष्यति (√अर्चय् लृट् प्र.पु. एक.)
रत्नैश्रत्न (३.३)
(अव्ययः)
माल्यैश्माल्य (३.३)
(अव्ययः)
त्वांत्वद् (२.१)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ना तो ऽयंविवि धै र्ग न्धै
रौ धैश्च थाविधि
र्च यिष्यति त्नैश्च
मा ल्यै श्च त्वांवि शे तः