४.२५.५

भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥

अन्वयः

अयम् he, ससुहृज्जनः along with friends, भवता by you, समनुज्ञातः permitted, शुभम् auspicious, नगरम् city, प्रविश्य on entering, विविधैः with different kinds of, गन्धैः with fragrants, औषधैश्च with medicinal herbs, यथाविधि as per tradition, स्नातः bathed, सर्वाणि all, कार्याणि works, संविधास्यति will do.

Summary

'Permitted by your gracious self, he will enter the auspicious city along with his friends and perform his duties. He had his auspicious bath in fragrant waters with medicinal herbs as per tradition.

पदच्छेदः

भवताभवत् (३.१)
समनुज्ञातःसमनुज्ञात (√समनु-ज्ञा + क्त, १.१)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
नगरंनगर (२.१)
शुभम्शुभ (२.१)
संविधास्यतिसंविधास्यति (√संवि-धा लृट् प्र.पु. एक.)
कार्याणिकार्य (२.३)
सर्वाणिसर्व (२.३)
ससुहृज्जनः (अव्ययः)–सुहृद्–जन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता नु ज्ञा तः
प्र विश्य रंशु भम्
संवि धास्यति का र्याणि
र्वाणिसु हृज्ज नः