४.२६.२०

एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण ।
इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः ॥

पदच्छेदः

एतत्एतद् (१.१)
तेत्वद् (४.१)
सदृशंसदृश (१.१)
वाक्यम्वाक्य (१.१)
उक्तंउक्त (√वच् + क्त, १.१)
शत्रुनिबर्हणशत्रु–निबर्हण (८.१)
इदानीम्इदानीम् (अव्ययः)
असिअसि (√अस् लट् म.पु. )
काकुत्स्थकाकुत्स्थ (८.१)
प्रकृतिंप्रकृति (२.१)
स्वाम्स्व (२.१)
उपागतःउपागत (√उपा-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तेदृ शं वाक्य
मु क्तंत्रुनिर्ह
दा नीसि का कुत्स्थ
प्रकृ तिं स्वामु पा तः