४.२८.३

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥

पदच्छेदः

निवृत्तकार्यंनिवृत्त (√नि-वृत् + क्त)–कार्य (२.१)
सिद्धार्थंसिद्धार्थ (२.१)
प्रमदाभिरतंप्रमदा–अभिरत (√अभि-रम् + क्त, २.१)
सदासदा (अव्ययः)
प्राप्तवन्तम्प्राप्तवत् (√प्र-आप् + क्तवतु, २.१)
अभिप्रेतान्अभिप्रेत (√अभिप्र-इ + क्त, २.३)
सर्वान्सर्व (२.३)
एवएव (अव्ययः)
मनोरथान्मनोरथ (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि वृत्त का र्यं सि द्धा र्थं
प्र दाभि तं दा
प्राप्तन्त भि प्रे ता
न्स र्वा ने नो थान्