४.२८.४

स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् ॥

पदच्छेदः

स्वांस्व (२.१)
(अव्ययः)
पत्नीम्पत्नी (२.१)
अभिप्रेतांअभिप्रेत (√अभिप्र-इ + क्त, २.१)
तारांतारा (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
समीप्सिताम्समीप्सित (२.१)
विहरन्तम्विहरत् (√वि-हृ + शतृ, २.१)
अहोरात्रंअहोरात्र (२.१)
कृतार्थंकृतार्थ (२.१)
विगतज्वलम्विगत (√वि-गम् + क्त)–ज्वल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्वां पा त्नी भि प्रे तां
ता रां चापि मीप्सि ताम्
विन्त हो रा त्रं
कृ ता र्थंविज्व लम्