४.२८.५

क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥

पदच्छेदः

क्रीडन्तम्क्रीडत् (√क्रीड् + शतृ, २.१)
इवइव (अव्ययः)
देवेशंदेवेश (२.१)
नन्दनेनन्दन (७.१)
ऽप्सरसांअप्सरस् (६.३)
गणैःगण (३.३)
मन्त्रिषुमन्त्रिन् (७.३)
न्यस्तकार्यंन्यस्त (√नि-अस् + क्त)–कार्य (२.१)
(अव्ययः)
मन्त्रिणाम्मन्त्रिन् (६.३)
अनवेक्षकम्अनवेक्षक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रीन्तमि दे वे शं
न्द नेऽप्स सां णैः
न्त्रि षु न्यस्त का र्यं
न्त्रि णा वेक्ष कम्