४.३०.३४

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।
पितुः समीपमागम्य सौमित्रिरयमागतः ॥

अन्वयः

लक्ष्मणस्य Lakshmana's, वचः words, श्रुत्वा on hearing, शोकाविष्ट: griefstricken, अङ्गदः Angada, पितुः father's, समीपम् near, आगम्य reached, अयम् this, सौमित्रिः Saumitri, आगतः has come, अब्रवीत् said.

M N Dutt

Hearing Laksmana's words, Angada overwhelmed with grief, approaching his uncle said-'Saumitree has arrived here.'

Summary

On hearing Lakshmana's words Angada became sad. He approached his father (Sugriva) and said 'Saumitri has come'. (This sloka appears an interpolation).

पदच्छेदः

लक्ष्मणस्यलक्ष्मण (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
शोकाविष्टोशोक–आविष्ट (√आ-विश् + क्त, १.१)
ऽङ्गदोअङ्गद (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
पितुःपितृ (६.१)
समीपम्समीप (२.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
सौमित्रिर्सौमित्रि (१.१)
अयम्इदम् (१.१)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्मस्य चः श्रु त्वा
शो का वि ष्टोऽङ्ग दोऽब्र वीत्
पि तुः मी माम्य
सौ मित्रि मा तः