४.३२.१२

एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥

पदच्छेदः

एतेषांएतद् (६.३)
कपिमुख्यानांकपि–मुख्य (६.३)
राजमार्गेराजमार्ग (७.१)
महात्मनाम्महात्मन् (६.३)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
गृहमुख्यानिगृह–मुख्य (२.३)
महासाराणिमहत्–सार (२.३)
लक्ष्मणःलक्ष्मण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षांपि मु ख्या नां
रा मा र्गे हात्म नाम्
र्शगृ मु ख्यानि
हा सा राणिक्ष्म णः