४.३२.१८

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥

पदच्छेदः

सुग्रीवस्यसुग्रीव (६.१)
गृहंगृह (२.१)
रम्यंरम्य (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
महाबलःमहत्–बल (१.१)
अवार्यमाणःअवार्यमाण (१.१)
सौमित्रिर्सौमित्रि (१.१)
महाभ्रम्महत्–अभ्र (२.१)
इवइव (अव्ययः)
भास्करःभास्कर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु ग्रीस्यगृ हं म्यं
प्रवि वे हा लः
वार्य मा णः सौ मित्रि
र्म हाभ्रमि भास्क रः