४.३६.७

तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।
पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः ॥

पदच्छेदः

तरुणादित्यवर्णाश्तरुण–आदित्य–वर्ण (१.३)
(अव्ययः)
पर्वतेपर्वत (७.१)
येयद् (१.३)
महारुणेमहारुण (७.१)
पिबन्तोपिबत् (√पा + शतृ, १.३)
मधुमैरेयंमधुमैरेय (२.१)
भीमवेगाःभीम–वेग (१.३)
प्लवंगमाःप्लवंगम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु णा दित्य र्णाश्च
र्व ते ये हारु णे
पि न्तोधु मै रे यं
भी वे गाःप्ल वं माः