४.३९.२७

अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ।
एतेषामालयाः सर्वे विचेयाः काननौकसः ॥

पदच्छेदः

अन्तर्जलचराअन्तर्जलचर (१.३)
घोराघोर (१.३)
नरव्याघ्रानर–व्याघ्र (१.३)
इतिइति (अव्ययः)
श्रुताःश्रुत (√श्रु + क्त, १.३)
एतेषाम्एतद् (६.३)
आलयाःआलय (१.३)
सर्वेसर्व (१.३)
विचेयाःविचेय (√वि-चि + कृत्, १.३)
काननौकसःकाननौकस् (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्तर्ज रा घो रा
व्या घ्रा तिश्रु ताः
ते षा मा याः र्वे
वि चे याः का नौ सः