४.४०.१२

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥

पदच्छेदः

अन्वीक्ष्यअन्वीक्ष्य (√अनु-ईक्ष् + ल्यप्)
दण्डकारण्यंदण्डक–अरण्य (२.१)
सपर्वतनदीगुहम् (अव्ययः)–पर्वत–नदी–गुहा (२.१)
नदींनदी (२.१)
गोदावरींगोदावरी (२.१)
चैव (अव्ययः)–एव (अव्ययः)
सर्वम्सर्व (१.१)
एवानुपश्यतएव (अव्ययः)–अनुपश्यत (√अनु-पश् लोट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्वीक्ष्यण्ड का ण्यं
र्व दीगु हम्
दीं गो दा रीं चै
र्व मे वानुश्य