४.४०.१३

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् ।
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥

पदच्छेदः

तथैवान्ध्रांश्तथा (अव्ययः)–एव (अव्ययः)–अन्ध्र (२.३)
(अव्ययः)
पुण्ड्रांश्पुण्ड्र (२.३)
(अव्ययः)
चोलान्चोल (२.३)
पाण्ड्यान्पाण्ड्य (२.३)
सकेरलान्सकेरल (२.३)
अयोमुखश्अयोमुख (१.१)
(अव्ययः)
गन्तव्यःगन्तव्य (√गम् + कृत्, १.१)
पर्वतोपर्वत (१.१)
धातुमण्डितःधातु–मण्डित (√मण्डय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै वा न्ध्रांश्च पु ण्ड्रांश्च
चो ला न्पा ण्ड्यान्स के लान्
योमुश्च न्त व्यः
र्व तो धातुण्डि तः