४.४०.५

अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ।
वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥

पदच्छेदः

अङ्गदप्रमुखान्अङ्गद–प्रमुख (२.३)
वीरान्वीर (२.३)
वीरःवीर (१.१)
कपिगणेश्वरःकपि–गण–ईश्वर (१.१)
वेगविक्रमसम्पन्नान्वेग–विक्रम–सम्पन्न (√सम्-पद् + क्त, २.३)
संदिदेशसंदिदेश (√सम्-दिश् लिट् प्र.पु. एक.)
विशेषवित्विशेष–विद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्गप्रमु खा न्वी रा
न्वी रःपि णेश्व रः
वे विक्र सं न्ना
न्संदि देवि शे वित्