४.४०.८

सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥

पदच्छेदः

सहस्रशिरसंसहस्रशिरस् (२.१)
विन्ध्यंविन्ध्य (२.१)
नानाद्रुमलतावृतम्नाना (अव्ययः)–द्रुम–लता–आवृत (√आ-वृ + क्त, २.१)
नर्मदांनर्मदा (२.१)
(अव्ययः)
नदींनदी (२.१)
दुर्गांदुर्ग (२.१)
महोरगनिषेविताम्महत्–उरग–निषेवित (√नि-सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्रशि सं वि न्ध्यं
ना नाद्रु तावृ तम्
र्म दां दीं दु र्गां
होनि षेवि ताम्