४.४०.७

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥

अन्वयः

तस्यां दिशि in that quarter, दुर्गमाः inaccessible, ये केचन those, समुद्देशाः spots, सः कपीशः the monkey king, कपिमुख्यानाम् to the chieftains of monkeys, तानुदाहरत् he gave an account.

Summary

Sugriva, the monkey king, explained to the monkey chiefs about the inaccessible places in the southern direction.

पदच्छेदः

येयद् (१.३)
केचनकश्चन (१.३)
समुद्देशास्समुद्देश (१.३)
तस्यांतद् (७.१)
दिशिदिश् (७.१)
सुदुर्गमाःसु (अव्ययः)–दुर्गम (१.३)
कपीशःकपि–ईश (१.१)
कपिमुख्यानांकपि–मुख्य (६.३)
तद् (१.१)
तेषांतद् (६.३)
तान्तद् (२.३)
उदाहरत्उदाहरत् (√उदा-हृ लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये के मु द्दे शा
स्त स्यांदिशिसु दुर्ग माः
पी शःपि मु ख्या नां
ते षां तानु दा रत्