४.४२.२४

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥

अन्वयः

क्रौञ्चं गिरिम् mountain Krauncha, आसाद्य after reaching, सुदुर्गमम् most diffficult place to access, तस्य बिलम् its entrance, अप्रमत्तै:carefully, प्रवेष्टव्यम् you may enter, तत् that, दुष्प्रवेशम् difficult to enter, स्मृतम् हि it is stated.

M N Dutt

And coming to the Kruncha mountain, you should, having your wits about you, enter its inaccessible cavern; for that is well known as difficult of entrance.

Summary

'Therefrom proceed to mount krauncha mountain and enter carefully its cave which is reportedly difficult to access.

पदच्छेदः

क्रौञ्चंक्रौञ्च (२.१)
तुतु (अव्ययः)
गिरिम्गिरि (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
बिलंबिल (१.१)
तस्यतद् (६.१)
सुदुर्गमम्सु (अव्ययः)–दुर्गम (१.१)
अप्रमत्तैःअप्रमत्त (३.३)
प्रवेष्टव्यंप्रवेष्टव्य (√प्र-विश् + कृत्, १.१)
दुष्प्रवेशंदुष्प्रवेश (१.१)
हिहि (अव्ययः)
तत्तद् (१.१)
स्मृतम्स्मृत (√स्मृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रौ ञ्चंतुगिरि मा साद्य
बि लंस्यसु दुर्ग मम्
प्र त्तैःप्र वे ष्ट व्यं
दुष्प्र वे शंहित्स्मृ तम्