४.४२.२६

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥

अन्वयः

क्रौञ्चस्य Krauncha's, शिखरं चापि peak also, ततस्ततः all over, निरीक्ष्य after observing, क्रौञ्चस्य Krauncha's, अन्याः other, गुहाश्च caves also, सानूनि summits, शिखराणि च peaks, निर्दराश्च and caverns also, नितम्बाश्च ridges, ततस्ततः everywhere, विचेतव्याः search.

M N Dutt

And you should thoroughly explore the other caves of Krauncha, its plateaus and peaks; its passes and sides.

Summary

'Ransack the peaks of Krauncha, its caves, caverns and ridges.

पदच्छेदः

क्रौञ्चस्यक्रौञ्च (६.१)
तुतु (अव्ययः)
गुहाश्गुहा (१.३)
चान्याः (अव्ययः)–अन्य (१.३)
सानूनिसानु (१.३)
शिखराणिशिखर (१.३)
(अव्ययः)
निर्दराश्निर्दर (१.३)
(अव्ययः)
नितम्बाश्नितम्ब (१.३)
(अव्ययः)
विचेतव्यास्विचेतव्य (√वि-चि + कृत्, १.३)
ततस्ततस् (अव्ययः)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रौ ञ्चस्यतुगु हा श्चा न्याः
सा नूनिशि राणि
निर्द राश्चनि म्बाश्च
वि चे व्यास्तस्त तः