४.४५.१४

इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ।
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥

अन्वयः

राजन् O king, हरीश्वरः king of monkeys, वाली Vali, तदा then, मतङ्गेन by Mathanga, यथा as, शप्तः cursed, मे to me, इदानीम् now, स्मृतम् I remembered, वाली Vali, अस्मिन् in this, आश्रममण्डले hermitage site, प्रविशेद्यदि if he enters, अस्य his, मूर्धा head, शतधा hundred pieces, भवेत् will become, तत्र there, अस्माकम् to us, वासः residence, सुखः happy, निरुद्विग्नः peaceful, भविष्यति will be.

M N Dutt

'O king, now, I remember me how that lord of monkeys, Vāli, was cursed by Matanga in this very hermitage. If Vāli enters (into this asylum), his head becomes cleft in hundred.

Summary

'I remembed Matanga's curse to Vali, king of monkeys. Vali would not enter the site of Matanga's hermitage as his head would break into a hundred pieces if he did'. Therefore we thought it would be safe for us to reside in that place.

पदच्छेदः

इदानींइदानीम् (अव्ययः)
मेमद् (६.१)
स्मृतंस्मृत (√स्मृ + क्त, १.१)
राजन्राजन् (८.१)
यथायथा (अव्ययः)
वालीवालिन् (१.१)
हरीश्वरःहरि–ईश्वर (१.१)
मतंगेनमतंग (३.१)
तदातदा (अव्ययः)
शप्तोशप्त (√शप् + क्त, १.१)
ह्य्हि (अव्ययः)
अस्मिन्न्इदम् (७.१)
आश्रममण्डलेआश्रम–मण्डल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा नीं मेस्मृ तं रा
न्य था वा ली रीश्व रः
ङ्गे दा प्तो
ह्य स्मि न्नाश्रण्ड ले