४.४७.४

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् ।
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥

अन्वयः

वीराः heroes, ते वानराः the vanaras, सर्वे all, सर्वतो दिशम् all over in that direction, अन्वेषमाणाः went searching, मैथिलीम् for Maithili, जनकात्मजाम् Janaka's daughter, सीताम् Sita, न ददृशुः they did not see.

Summary

The heroic monkeys went searching all over the direction for the daughter of Janaka, but in vain.

पदच्छेदः

अन्वेषमाणास्अन्वेषमाण (√अनु-इष् + शानच्, १.३)
तेतद् (१.३)
सर्वेसर्व (१.३)
वानराःवानर (१.३)
सर्वतोसर्वतस् (अव्ययः)
दिशम्दिश् (२.१)
(अव्ययः)
सीतांसीता (२.१)
ददृशुर्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
वीरावीर (१.३)
मैथिलींमैथिली (२.१)
जनकात्मजाम्जनकात्मजा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्वे मा णा स्ते र्वे
वा राःर्व तोदि शम्
सी तांदृ शु र्वी रा
मैथि लीं कात्म जाम्