४.४९.२३

नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः ।
काञ्चनानि विमानानि राजतानि तथैव च ॥

पदच्छेदः

नलिनीस्नलिनी (२.३)
तत्रतत्र (अव्ययः)
ददृशुःददृशुः (√दृश् लिट् प्र.पु. बहु.)
प्रसन्नसलिलायुताःप्रसन्न (√प्र-सद् + क्त)–सलिल–आयुत (२.३)
काञ्चनानिकाञ्चन (२.३)
विमानानिविमान (२.३)
राजतानिराजत (२.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लि नी स्तत्रदृ शुः
प्रन्नलि लायु ताः
काञ्च नानिवि मा नानि
रा तानि थै