४.४९.२६

काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥

पदच्छेदः

काञ्चनभ्रमरांश्काञ्चन–भ्रमर (२.३)
चैव (अव्ययः)–एव (अव्ययः)
मधूनिमधु (२.३)
(अव्ययः)
समन्ततःसमन्ततः (अव्ययः)
मणिकाञ्चनचित्राणिमणि–काञ्चन–चित्र (२.३)
शयनान्य्शयन (२.३)
आसनानिआसन (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काञ्चभ्र रां श्चै
धूनिन्त तः
णि काञ्च चि त्राणि
ना न्या नानि