४.५१.१४

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ।
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
गाढंगाढम् (अव्ययः)
निपतितानिपतित (√नि-पत् + क्त, १.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
हस्तौहस्त (२.२)
परस्परम्परस्पर (२.१)
इदंइदम् (२.१)
प्रविष्टाःप्रविष्ट (√प्र-विश् + क्त, १.३)
सहसासहस् (३.१)
बिलंबिल (२.१)
तिमिरसंवृतम्तिमिर–संवृत (√सम्-वृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो गा ढंनिति ता
गृह्य स्तौस्प रम्
दंप्र वि ष्टाः सा
बि लंतिमि संवृ तम्