४.५१.९

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥

अन्वयः

वयम् we, सर्वे all, सर्वम् all over, समग्रां entirely, वयं we, परिश्रान्ता exhausted, दक्षिणां दिशम् on the southern direction, विचित्य after searching, बुभुक्षिताः feeling hungry, वृक्षमूलम् under a tree, उपाश्रिताः sheltered.

M N Dutt

Having searched through the forest as well as the ocean on the South, we becoming hungry, sat down at the foot of a tree.

पदच्छेदः

विचित्यविचित्य (√वि-चि + ल्यप्)
तुतु (अव्ययः)
वयंमद् (१.३)
सर्वेसर्व (१.३)
समग्रांसमग्र (२.१)
दक्षिणांदक्षिण (२.१)
दिशम्दिश् (२.१)
बुभुक्षिताःबुभुक्षित (√बुभुक्ष् + क्त, १.३)
परिश्रान्तापरिश्रान्त (√परि-श्रम् + क्त, १.३)
वृक्षमूलम्वृक्ष–मूल (२.१)
उपाश्रिताःउपाश्रित (√उपा-श्रि + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि चित्यतु यं र्वे
ग्रांक्षि णांदि शम्
बु भुक्षि ताः रि श्रा न्ता
वृक्ष मूमु पाश्रि ताः