४.५३.३

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥

पदच्छेदः

आपूर्यमाणंआपूर्यमाण (√आ-पृ + शानच्, २.१)
शश्वच्शश्वत् (अव्ययः)
(अव्ययः)
तेजोबलपराक्रमैःतेजस्–बल–पराक्रम (३.३)
शशिनंशशिन् (२.१)
शुक्लपक्षादौशुक्लपक्ष–आदि (७.१)
वर्धमानम्वर्धमान (√वृध् + शानच्, २.१)
इवइव (अव्ययः)
श्रियाश्री (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पूर्य मा णं श्वच्च
ते जो राक्र मैः
शि नं शुक्ल क्षा दौ
र्ध मामिश्रि या