४.५३.२

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।
चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् ॥

अन्वयः

हनूमान् Hanuman, वालिनः Vali's, सुतम् son, अष्टाङ्गया with eight limbs, बुद्ध्या with intellect, युक्तम् endowed, चतुर्बलसमन्वितम् possessed of four kinds of strength, चतुर्दशगुणम् having fourteen qualities, मेने thought.

Summary

Hanuman thought Vali's son possessed in addition to his intellect, eight kinds of limbs, four kinds of strength and fourteen qualities (required of a king):

पदच्छेदः

बुद्ध्याबुद्धि (३.१)
ह्य्हि (अव्ययः)
अष्टाङ्गयाअष्टाङ्ग (३.१)
युक्तंयुक्त (√युज् + क्त, २.१)
चतुर्बलसमन्वितम्चतुर्–बल–समन्वित (२.१)
चतुर्दशगुणंचतुर्दशन्–गुण (२.१)
मेनेमेने (√मन् लिट् प्र.पु. एक.)
हनुमान्हनुमन्त् (१.१)
वालिनःवालिन् (६.१)
सुतम्सुत (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बु द्ध्या ह्य ष्टाङ्ग या यु क्तं
तुर्बन्वि तम्
तुर्दगु णं मे ने
नु मा न्वालि नःसु तम्