४.५५.१३

जटायुषो विनाशेन राज्ञो दशरथस्य च ।
हरणेन च वैदेह्याः संशयं हरयो गताः ॥

अन्वयः

जटायुषः Jatayu's, विनाशेन by the death, राज्ञः king's, दशरथस्य च and Dasaratha's, वैदेह्याः princess from Videha, हरणेन च by abducting, हरयः monkeys, संशयं गताः are caught in doubtful situation.

M N Dutt

In consequence of the death of Jațāyu and that of king Dasaratha, as well as owing to the ravishment of Vaidehi, (the lives of) the monkeys have come into jeopardy.

Summary

'The survival of monkeys has become doubtful due to the death of Jatayu, death of king Dasaratha and the abduction of the princess from Videha.

पदच्छेदः

जटायुषोजटायुस् (६.१)
विनाशेनविनाश (३.१)
राज्ञोराजन् (६.१)
दशरथस्यदशरथ (६.१)
(अव्ययः)
हरणेनहरण (३.१)
(अव्ययः)
वैदेह्याःवैदेही (६.१)
संशयंसंशय (२.१)
हरयोहरि (१.३)
गताःगत (√गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

टायु षोवि ना शे
रा ज्ञोस्य
णे वै दे ह्याः
सं यं यो ताः