४.५६.१६

ते वयं दण्दकारण्यं विचित्य सुसमाहिताः ।
अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥

M N Dutt

It came to pass that, having heedfully explored the Dandaka forest, we through ignorance entered a cave lying open before.

पदच्छेदः

तेतद् (१.३)
वयंमद् (१.३)
दण्डकारण्यंदण्डक–अरण्य (२.१)
विचित्यविचित्य (√वि-चि + ल्यप्)
सुसमाहिताःसु (अव्ययः)–समाहित (१.३)
अज्ञानात्अज्ञान (५.१)
तुतु (अव्ययः)
प्रविष्टाःप्रविष्ट (√प्र-विश् + क्त, १.३)
स्मस्म (अव्ययः)
धरण्याधरणी (६.१)
विवृतंविवृत (√वि-वृ + क्त, २.१)
बिलम्बिल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते यंण्द का ण्यं
वि चित्यसु माहि ताः
ज्ञा ना त्तुप्र वि ष्टाःस्म
ण्याविवृ तंबि लम्