४.५६.१८

ते वयं कपिराजस्य सर्वे वचनकारिणः ।
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥

M N Dutt

Doing the behests of the king of monkeys, we, having overstayed the terms which had been appointed, have from fear sat here down for the purpose of fasting to death.

पदच्छेदः

तेतद् (१.३)
वयंमद् (१.३)
कपिराजस्यकपि–राज (६.१)
सर्वेसर्व (१.३)
वचनकारिणःवचन–कारिन् (१.३)
कृतांकृत (√कृ + क्त, २.१)
संस्थाम्संस्था (२.१)
अतिक्रान्ताअतिक्रान्त (√अति-क्रम् + क्त, १.३)
भयात्भय (५.१)
प्रायम्प्राय (२.१)
उपास्महेउपास्महे (√उप-आस् लट् उ.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते यंपि रास्य
र्वे कारि णः
कृ तां सं स्था ति क्रा न्ता
या त्प्रामु पास्म हे