४.५७.२४

तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः ।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥

पदच्छेदः

तत्रैवतत्र (अव्ययः)–एव (अव्ययः)
त्वरिताःत्वरित (१.३)
क्षिप्रंक्षिप्रम् (अव्ययः)
विक्रमध्वंविक्रमध्वम् (√वि-क्रम् लोट् म.पु. द्वि.)
प्लवंगमाःप्लवंगम (८.३)
ज्ञानेनज्ञान (३.१)
खलुखलु (अव्ययः)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
प्रत्यागमिष्यथप्रत्यागमिष्यथ (√प्रत्या-गम् लृट् म.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रैत्वरि ताः क्षि प्रं
विक्र ध्वंप्ल वं माः
ज्ञा नेलु श्यामि
दृ ष्ट्वा प्र त्या मिष्य