४.५८.२३

एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥

पदच्छेदः

एतम्एतद् (२.१)
अर्थंअर्थ (२.१)
समग्रंसमग्र (२.१)
मेमद् (६.१)
सुपार्श्वःसुपार्श्व (१.१)
प्रत्यवेदयत्प्रत्यवेदयत् (√प्रति-वेदय् लङ् प्र.पु. एक.)
तच्छ्रुत्वापितद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)–अपि (अव्ययः)
हिहि (अव्ययः)
मेमद् (६.१)
बुद्धिर्बुद्धि (१.१)
नासीत् (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
काचित्कश्चित् (१.१)
पराक्रमेपराक्रम (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्थं ग्रं मे
सु पा र्श्वः प्रत्य वे यत्
च्छ्रु त्वापिहि मे बुद्धि
र्ना सी त्का चित्प राक्र मे