४.६.१

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।
हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥

M N Dutt

Sugrīva well pleased again addressed Rāghava, the son of Raghu, saying, O Rāma, this servant of thine, foremost of my counsellors, Hanumān, has related (to me), the reason of your arrival in this lone forest.

पदच्छेदः

अयम्इदम् (१.१)
आख्यातिआख्याति (√आ-ख्या लट् प्र.पु. एक.)
मेमद् (६.१)
रामराम (८.१)
सचिवोसचिव (१.१)
मन्त्रिसत्तमःमन्त्रिन्–सत्तम (१.१)
हनुमान्हनुमन्त् (१.१)
यन्निमित्तंयद् (२.१)–निमित्त (२.१)
त्वंत्वद् (१.१)
निर्जनंनिर्जन (२.१)
वनम्वन (२.१)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा ख्याति मे रा
चि वोन्त्रित्त मः
नु मा न्यन्नि मि त्तं त्वं
निर्ज नं मा तः