४.५.१८

ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् ।
सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा ॥

पदच्छेदः

ततःततस् (अव्ययः)
सर्वार्थविद्वांसंसर्व–अर्थ–विद्वस् (२.१)
रामंराम (२.१)
दशरथात्मजम्दशरथ–आत्मज (२.१)
सुग्रीवःसुग्रीव (१.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
तेजस्वीतेजस्विन् (१.१)
वाक्यम्वाक्य (२.१)
एकमनास्एकमनस् (१.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः र्वार्थ वि द्वां सं
रा मं थात्म जम्
सु ग्री वः प्रा ते स्वी
वाक्य मे नास्त दा